सोमवार, 21 सितंबर 2015

कस्मै देवाय हविषा विधेम

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् 
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ।
य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः 
यस्य छायामृतम् यस्य मृत्युः कस्मै देवाय हविषा विधेम ।
 

यः प्राणतो निमिषतो महित्वै क इद्राजा जगतो बभूव             
यः ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम । 
यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसय सहाहुः             
यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम । 
येन द्यौरुग्रा पृथिवी च दृळहा येन स्वः स्तभितं येन नाकः         
यो अंतरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ।
 


यं क्रन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसा रेजमाने           
यन्नाधि सूर उदतो विभाति कस्मै देवाय हविषा विधेम ।
आपेा ह यद् वृहतीर्विश्वमायन् गर्भं दधाना जनयन्तीरग्निम           
ततो देवानाम् समवर्ततासुरेकः कस्मै देवाय हविषा विधेम ।
यश्चिदापो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीर्यज्ञम्         
यो देवेष्वधि देवः एक आसीत कस्मै देवाय हविषा विधेम ।
मा नो हिंसीज्जनिताः यः पृथिव्या यो वा दिव सत्यधर्मा जजान             
यश्चापश्चन्द्रा बृहतीर्जजान कस्मै देवाय हविषा विधेम ।
 



प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव           
यत् कामास्ते जुहुमस्तन्नो अस्तु कस्मै देवाय हविषा विधेम ।




 हिरण्यगर्भ-ऋग्वेद मंडल 10 सूक्त 121

hamarivani

www.hamarivani.com