हिरण्यगर्भः
समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्
स दाधार पृथिवीं
द्यामुतेमां कस्मै देवाय हविषा विधेम ।
य आत्मदा बलदा यस्य
विश्व उपासते प्रशिषं यस्य देवाः
यस्य छायामृतम् यस्य
मृत्युः कस्मै देवाय हविषा विधेम ।
यः प्राणतो निमिषतो
महित्वै क इद्राजा जगतो बभूव
यः ईशे अस्य
द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ।
यस्येमे हिमवन्तो
महित्वा यस्य समुद्रं रसय सहाहुः
यस्येमाः प्रदिशो
यस्य बाहू कस्मै देवाय हविषा विधेम ।
येन द्यौरुग्रा
पृथिवी च दृळहा येन स्वः स्तभितं येन नाकः
यो अंतरिक्षे रजसो
विमानः कस्मै देवाय हविषा विधेम ।
यं क्रन्दसी अवसा
तस्तभाने अभ्यैक्षेतां मनसा रेजमाने
यन्नाधि सूर उदतो
विभाति कस्मै देवाय हविषा विधेम ।
आपेा ह यद्
वृहतीर्विश्वमायन् गर्भं दधाना जनयन्तीरग्निम
ततो देवानाम्
समवर्ततासुरेकः कस्मै देवाय हविषा विधेम ।
यश्चिदापो महिना
पर्यपश्यद् दक्षं दधाना जनयन्तीर्यज्ञम्
यो देवेष्वधि देवः
एक आसीत कस्मै देवाय हविषा विधेम ।
मा नो हिंसीज्जनिताः
यः पृथिव्या यो वा दिव सत्यधर्मा जजान
यश्चापश्चन्द्रा
बृहतीर्जजान कस्मै देवाय हविषा विधेम ।
प्रजापते न
त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव
यत् कामास्ते
जुहुमस्तन्नो अस्तु कस्मै देवाय हविषा विधेम ।
हिरण्यगर्भ-ऋग्वेद मंडल 10 सूक्त 121
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें